|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.43. अध्यायः 043
Mahabharata - Vana Parva - Chapter Topics
इन्द्रेणार्जुनस्य सबहुमानं स्वार्धासनारोपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-43-0x(1887)(17467)
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम्।
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ 3-43-1(17468)
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्।
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ 3-43-2(17469)
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्।
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ 3-43-3(17470)
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना।
स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्युखैः ॥ 3-43-4(17471)
नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः।
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ 3-43-5(17472)
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन।
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ 3-43-6(17473)
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्।
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ 3-43-7(17474)
तत्र देवविमानानि कामगानि सहस्रशः।
संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥ 3-43-8(17475)
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः।
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ 3-43-9(17476)
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥ 3-43-10(17477)
आसीर्वादैः स्तूयमानो दिव्यवादित्रनिःस्वनैः।
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥ 3-43-11(17478)
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्।
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ 3-43-12(17479)
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा।
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ 3-43-13(17480)
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः।
तम्बुरुर्नारदश्चैव गन्धर्वौ च हाहा हूहूः ॥ 3-43-14(17481)
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः।
ततोऽपश्यद्देवराजं शतक्रतुमरिंदमः ॥ 3-43-15(17482)
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्।
ददर्श साक्षाद्देवेशं पितरं पाकशासनम् ॥ 3-43-16(17483)
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा।
दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ 3-43-17(17484)
विश्वावसुप्रभृतिनिर्गन्धर्वैः स्तुतिवन्दिभिः।
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ 3-43-18(17485)
ततोऽभिगम्य कौन्तेयः शिरसाऽभ्यगमद्बली।
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत ॥ 3-43-19(17486)
ततः शक्रासने पुण्ये देवर्षिगणसेविते।
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ 3-43-20(17487)
मूर्धि चैनमुपाघ्राय देवेन्द्रः परवीरहा।
अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ 3-43-21(17488)
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा।
आरुरुक्षुरमेयात्मा द्वितीय इववासवः ॥ 3-43-22(17489)
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्।
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ 3-43-23(17490)
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ।
ज्याशरक्षेपकिनौ स्तम्भाविव हिरण्मयौ ॥ 3-43-24(17491)
वज्रग्रहणचिह्नेन करेण परिसान्त्वयन्।
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्शनैः ॥ 3-43-25(17492)
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्।
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ 3-43-26(17493)
एकासनोपविष्टौ तौ शोभयांसचक्रतुः सभाम्।
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ ॥ 3-43-27(17494)
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना।
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥ 3-43-28(17495)
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा।
उर्वशी मिश्रकेशी च दण्डगौरी वरूथीनि ॥ 3-43-29(17496)
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा।
चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ 3-43-30(17497)
एताश्चान्याश्च ननृतुस्तत्रतत्र शुचिस्मिताः।
चत्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ 3-43-31(17498)
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः।
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः ॥ 3-43-32(17499)
[ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्।
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ 3-43-33(17500)
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्।
प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥ 3-43-34(17501)
एवं संपूजितो जिष्णुरुवास भवने पितुः।
उपशिक्षन्महास्राणि ससंहाराणि पाण्डवः ॥ 3-43-35(17502)
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम्।
अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ 3-43-36(17503)
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः।
पुरंदरनियोगाच्च पञ्चाब्दानवसत्सुखी ॥ 3-43-37(17504)
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते।
नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ 3-43-38(17505)
वादित्रं देवविहितं नृलोके यन्न विद्यते।
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ 3-43-39(17506)
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः।
स तेन सह संगम्य रेमे पार्थो निरामयः ॥ 3-43-40(17507)
गीतवादित्रनृत्यानि भूय एवादिदेश ह।
तथाऽपि नालभच्छर्म तरस्वी द्यूतकारितम् ॥ 3-43-41(17508)
दुःशासनवधामर्षी शकुनेः सौबलस्य च।
ततस्तेनातुलां प्रीतिमुपागम्य क्वचित्क्वचित्।
गान्धऱ्वमतुलं नृत्यं वादित्रं चोपलब्धवान् ॥ 3-43-42(17509)
स शिक्षितो नृत्यगुणाननेका-
न्वादित्रगीतार्थगुणांश्च सर्वान्।
न शर्ण लेभे परवीरहन्ता
भ्रातॄन्स्मरन्मातरं चैव कुन्तीम् ॥ 3-43-43(17510)
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-43-3 नन्दनं नामतः ॥ 3-43-21 प्रश्रयावनतं विनयेन प्रह्वीभूतम् ॥ 3-43-25 वज्रग्रहणस्य चिह्नं किणो यस्मिन् ॥ 3-43-28 गीतानि अमन्त्रेपरि गानम्। साम मन्त्रोपरि गानम् ॥ 3-43-32 चेतः अलोचनात्मिका चित्तवृत्तिः। बुद्धिरध्यवसायरूपा। मनः संकल्पविकल्पात्मकम्। कटाक्षादिभिः चित्तस्य वृत्त्यन्तरं हरन्तीत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|